पूर्वम्: २।३।३०
अनन्तरम्: २।३।३२
 
प्रथमावृत्तिः

सूत्रम्॥ एनपा द्वितीया॥ २।३।३१

पदच्छेदः॥ एनपा ३।१ द्वितीया १।१

काशिका-वृत्तिः
एनपा द्वितीया २।३।३१

एनबन्यतरस्याम् अदूरे ऽपञ्चम्याः ५।३।३५ इति वक्ष्यति। तेन युक्ते द्वितीया विभक्तिर् भवति। पूर्वेण षष्ठ्यां प्राप्तायाम् इदं वचनम्। दक्षिणेन ग्रामम्। उत्तरेण ग्रामम्। षष्ठ्यापीष्यते। दक्षिणेन ग्रामस्य। उत्तरेण ग्रामस्य। तदर्थं योगविभागः कर्तव्यः।
न्यासः
एनपा द्वितीया। , २।३।३१

"पूर्वेण षष्ठ()आं प्राप्तायां वचनमिदम्िति। एनपोऽतसर्थत्वात्। "तदर्थो योगविभागः कत्र्तव्यः" इति। एनपेति पृथयोगः कत्र्तव्यः,एनपा षष्ठी यथा स्यात्। अन्यथा हि द्वितयीयासौ बाध्येत। ततो द्वितीयेति द्वितीयो योगः, अत्र चैनपेति वत्र्तते॥
न्यासः
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्। , २।३।३१

"पञ्चमीग्रहणमनुवत्र्तते" इति। स्वरितत्वात्। इमे सर्वे पृथगादयोऽसहायेऽर्थे वत्र्तन्ते। भेदेनोपादानन्तु पर्यायान्तरनिवृत्त्यर्थम्। इह तृतीयापञ्चम्यौ मा भूताम्-- हिरुग् देवदत्तस्य। विष्वग् देवदत्तस्येति। तत्रासत्यां पञ्चमीग्रहणानुवृत्तौ यथा हिरुगित्यादिना पर्यायान्तरेण योगे षष्ठी भवति, तथा पृथगादिभिर्योगे पक्षे षष्ठी स्यात्, न पञ्चमी। तस्मात् पञ्चमीग्रहणमनुवत्र्तनीयम्, अनुवृत्तेरेव पक्षे भविष्यति, तत् किमर्थमन्यतरस्यां ग्रहणम्? सत्यम्; तत् कृतञ्च तस्या एवानुवृत्तेः सूचनार्थमुत्तरार्थञ्च॥
बाल-मनोरमा
एनपा द्वितीया ६०२, २।३।३१

एनपा द्वितीया। "षष्ठ()तसर्थे"ति षष्ठ()आ नित्य बाधे प्राप्ते आह--योगविभागादिति। एनपेति योगो विभज्यते। "षष्ठ()तसर्थे"ति पूर्वसूत्रात्षष्ठीत्यनुवर्तते। एनबन्तेनयोगे षष्ठी स्यादित्यर्थः। द्वितीयेति योगान्तरम्। एनपेत्यनुवर्तते। एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः। दक्षिणेनेति। "एनबन्यतरस्यामदूरेऽपञ्चम्याः" इत्येनप्। एवमुत्तरेणेति। उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः। पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यचम्, दिक्शब्देभ्यः एनब्विधेः। भाष्ये तु "षष्ठ()तसर्थे"ति सूत्रात्प्राक् "एनपा द्वितीया" इत्यस्य पाठ इति "पृथग्विना" इति सूत्रे उक्तम्। अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसंभवादेनपायोगे षष्ठ()साधुरेवेति युक्तम्।

तत्त्व-बोधिनी
एनपा द्वितीया ५४१, २।३।३१

एवपा। कथं तर्हि "तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्" इति। उत्तरेणेत्येतत् "दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तेरणेन" इति तोरणसमानाधिकरणं तृतीयान्त न त्वेनबन्तमित्याहुः। "धनपतिगृहानुत्तरेणास्मदीयम्" इति कैश्चित्पट()ते, तदा तु सम्यगेव। दक्षिणेनेति। दक्षिणस्यामदूर इत्यर्थे "एनबन्यतरस्याम्" इत्यादिना एनप्। (५४०) दूरान्तिकार्थैः षष्ठ()न्यतरस्याम्।२।३।३४।

दूरान्तिकार्थैः। षष्ठ()आं प्राप्तायां पक्षे पञ्चम्यर्थं वचनम्। इहान्यतरस्यांग्रहणं समुच्चयार्थं, तेन विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु सन्निहिते अपि द्वितीयातृतीये, तदेतदाह--पञ्चमी चेति। सर्पिषो ज्ञानमिति। वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः। ज्ञानपूर्वीकायां प्रवृत्तौ जानातेर्लक्षणा।